Sukta 4.26
ऋजीपी श्येनो ददमानो अंशुं परावतः शकुनो मन्द्रं मदम् । सोमं भरद्दादृहाणो देवावान्दिवो अमुष्मादुत्तरादादाय ॥
ऋ॒जी॒पी श्ये॒नो दद॑मानो अं॒शुं प॑रा॒वत॑: शकु॒नो म॒न्द्रं मद॑म् । सोमं॑ भरद्दादृहा॒णो दे॒वावा॑न्दि॒वो अ॒मुष्मा॒दुत्त॑रादा॒दाय॑ ॥
ṛjīpī śyéno dádāmāno aṃśúṃ parāvátaḥ śakunó mandráṃ mádam | sómaṃ bhárad dādr̥hāṇó devávān divó amúṣmād úttarād ādā́ya ||
The straight-winged Falcon, offering the pressed shoot, brought the rapturous delight from the far beyond. Holding fast to the god-filled power, he carried Soma down from that higher region of heaven and seized it from the uppermost height—so the ecstasy may enter the human vessel.
ऋ॒जी॒पी । श्ये॒नः । दद॑मानः । अं॒शुम् । प॒रा॒ऽवतः॑ । श॒कु॒नः । म॒न्द्रम् । मद॑म् । सोम॑म् । भ॒र॒त् । द॒दृ॒हा॒णः । दे॒वऽवा॑न् । दि॒वः । अ॒मुष्मा॑त् । उत्ऽता॑रात् । आ॒ऽदाय॑ ॥ऋजीपी । श्येनः । ददमानः । अंशुम् । परावतः । शकुनः । मन्द्रम् । मदम् । सोमम् । भरत् । ददृहाणः । देववान् । दिवः । अमुष्मात् । उत्तारात् । आदाय ॥ṛjīpī | śyenaḥ | dadamānaḥ | aṃśum | parāvataḥ | śakunaḥ | mandram | madam | somam | bharat | dadṛhāṇaḥ | deva-vān | divaḥ | amuṣmāt | ut-tārāt | ādāya