Sukta 4.26
भरद्यदि विरतो वेविजानः पथोरुणा मनोजवा असर्जि । तूयं ययौ मधुना सोम्येनोत श्रवो विविदे श्येनो अत्र ॥
भर॒द्यदि॒ विरतो॒ वेवि॑जानः प॒थोरुणा॒ मनो॑जवा असर्जि । तूयं॑ ययौ॒ मधु॑ना सो॒म्येनो॒त श्रवो॑ विविदे श्ये॒नो अत्र॑ ॥
bhárad yádi vír ato vévijānaḥ pathóruṇā mánojavā asarji | tū́yaṃ yayau mádhunā somyéna utá śrávo vivide śyéno atrá ||
When he bore it forth, trembling with speed, he launched along the wide pathways with mind-swiftness. Quickly he went with the honeyed Soma; and here the falcon won also the fame—of that victorious bringing.
भर॑त् । यदि॑ । विः । अतः॑ । वेवि॑जानः । प॒था । उ॒रुणा॑ । मनः॑ऽजवाः । अ॒स॒र्जि॒ । तूय॑म् । य॒यौ॒ । मधु॑ना । सो॒म्येन॑ । उ॒त । श्रवः॑ । वि॒वि॒दे॒ । श्ये॒नः । अत्र॑ ॥भरत् । यदि । विः । अतः । वेविजानः । पथा । उरुणा । मनःजवाः । असर्जि । तूयम् । ययौ । मधुना । सोम्येन । उत । श्रवः । विविदे । श्येनः । अत्र ॥bharat | yadi | viḥ | ataḥ | vevijānaḥ | pathā | uruṇā | manaḥ-javāḥ | asarji | tūyam | yayau | madhunā | somyena | uta | śravaḥ | vivide | śyenaḥ | atra