Sukta 4.26
आदाय श्येनो अभरत्सोमं सहस्रं सवाँ अयुतं च साकम् । अत्रा पुरंधिरजहादरातीर्मदे सोमस्य मूरा अमूरः ॥
आ॒दाय॑ श्ये॒नो अ॑भर॒त्सोमं॑ स॒हस्रं॑ स॒वाँ अ॒युतं॑ च सा॒कम् । अत्रा॒ पुरं॑धिरजहा॒दरा॑ती॒र्मदे॒ सोम॑स्य मू॒रा अमू॑रः ॥
ādā́ya śyéno ábharat sómaṃ sahásraṃ savā́m̐ ayútaṃ ca sā́kam | átrā puráṃdhir ajahād árātīr máde sómasya mūrā́ amūraḥ ||
Having seized it, the Falcon brought Soma—an abundance of pressings, thousands and tens of thousands together. Here the Power of plenitude (Purandhi) cast away the forces of hostility; in the ecstasy of Soma the bewildering confusions become unbewildering, and the being turns clear.
आ॒ऽदाय॑ । श्ये॒नः । अ॒भ॒र॒त् । सोम॑म् । स॒हस्र॑म् । स॒वान् । अ॒युत॑म् । च॒ । सा॒कम् । अत्र॑ । पुर॑म्ऽधिः । अ॒ज॒हा॒त् । अरा॑तीः । मदे॑ । सोम॑स्य । मू॒राः । अमू॑रः ॥आदाय । श्येनः । अभरत् । सोमम् । सहस्रम् । सवान् । अयुतम् । च । साकम् । अत्र । पुरम्धिः । अजहात् । अरातीः । मदे । सोमस्य । मूराः । अमूरः ॥ādāya | śyenaḥ | abharat | somam | sahasram | savān | ayutam | ca | sākam | atra | puram-dhiḥ | ajahāt | arātīḥ | made | somasya | mūrāḥ | amūraḥ