Sukta 4.26
प्र सु ष विभ्यो मरुतो विरस्तु प्र श्येनः श्येनेभ्य आशुपत्वा । अचक्रया यत्स्वधया सुपर्णो हव्यं भरन्मनवे देवजुष्टम् ॥
प्र सु ष विभ्यो॑ मरुतो॒ विर॑स्तु॒ प्र श्ये॒नः श्ये॒नेभ्य॑ आशु॒पत्वा॑ । अ॒च॒क्रया॒ यत्स्व॒धया॑ सुप॒र्णो ह॒व्यं भर॒न्मन॑वे दे॒वजु॑ष्टम् ॥
prá su ṣá vibhyo marúto vír astu prá śyénaḥ śyénebhya āśu-pátvā | acakráyā yát svadháyā suparṇó havyáṃ bháran mánave deva-júṣṭam ||
Forth indeed let that one be, apart from you, O Maruts; forth the falcon from the falcons, swift of wing. When, wheel-less, by his own power, the fair-wing bore the offering for Manu—an oblation beloved of the gods.
प्र । सु । सः । विऽभ्यः॑ । म॒रु॒तः॒ । विः । अ॒स्तु॒ । प्र । श्ये॒नः । श्ये॒नेभ्यः॑ । आ॒शु॒ऽपत्वा॑ । अ॒च॒क्रया॑ । यत् । स्व॒धया॑ । सु॒ऽप॒र्णः । ह॒व्यम् । भर॑त् । मन॑वे । दे॒वऽजु॑ष्टम् ॥प्र । सु । सः । विभ्यः । मरुतः । विः । अस्तु । प्र । श्येनः । श्येनेभ्यः । आशुपत्वा । अचक्रया । यत् । स्वधया । सुपर्णः । हव्यम् । भरत् । मनवे । देवजुष्टम् ॥pra | su | saḥ | vi-bhyaḥ | marutaḥ | viḥ | astu | pra | śyenaḥ | śyenebhyaḥ | āśu-patvā | acakrayā | yat | svadhayā | su-parṇaḥ | havyam | bharat | manave | deva-juṣṭam