Sukta 4.26
अहं पुरो मन्दसानो व्यैरं नव साकं नवतीः शम्बरस्य । शततमं वेश्यं सर्वताता दिवोदासमतिथिग्वं यदावम् ॥
अ॒हं पुरो॑ मन्दसा॒नो व्यै॑रं॒ नव॑ सा॒कं न॑व॒तीः शम्ब॑रस्य । श॒त॒त॒मं वे॒श्यं॑ स॒र्वता॑ता॒ दिवो॑दासमतिथि॒ग्वं यदाव॑म् ॥
aháṃ púro mandasānáḥ vy àiraṃ náva sā́kaṃ navatī́ḥ śámbarāsya | śata-tamáṃ veśyàṃ sárvatātā dívo-dāsam atithi-gváṃ yád ā́vam ||
I, exulting, shattered the strongholds—nine and ninety together—of Śambara. I aided Divodāsa Atithigva, the hundredth dwelling, the all-conquering.
अ॒हम् । पुरः॑ । म॒न्द॒सा॒नः । वि । ऐ॒र॒म् । नव॑ । सा॒कम् । न॒व॒तीः । शम्ब॑रस्य । श॒त॒ऽत॒मम् । वे॒श्य॑म् । स॒र्वऽता॑ता । दिवः॑ऽदासम् । अ॒ति॒थि॒ऽग्वम् । यत् । आव॑म् ॥अहम् । पुरः । मन्दसानः । वि । ऐरम् । नव । साकम् । नवतीः । शम्बरस्य । शततमम् । वेश्यम् । सर्वताता । दिवःदासम् । अतिथिग्वम् । यत् । आवम् ॥aham | puraḥ | mandasānaḥ | vi | airam | nava | sākam | navatīḥ | śambarasya | śata-tamam | veśyam | sarva-tātā | divaḥ-dāsam | atithi-gvam | yat | āvam