Sukta 4.25
सुप्राव्यः प्राशुषाळेष वीरः सुष्वेः पक्तिं कृणुते केवलेन्द्रः । नासुष्वेरापिर्न सखा न जामिर्दुष्प्राव्योऽवहन्तेदवाचः ॥
सु॒प्रा॒व्य॑: प्राशु॒षाळे॒ष वी॒रः सुष्वे॑: प॒क्तिं कृ॑णुते॒ केव॒लेन्द्र॑: । नासु॑ष्वेरा॒पिर्न सखा॒ न जा॒मिर्दु॑ष्प्रा॒व्यो॑ऽवह॒न्तेदवा॑चः ॥
suprāvyàḥ prāśuṣā́ḷ eṣá vīráḥ súsveḥ paktíṃ kṛṇute kévaléndraḥ | nā́susveḥ ā́pir ná sákhā ná jāmír duḥprāvyò ’vahanté dávācaḥ ||
This hero, of good forward-help, strong in the pressing, makes for the well-pressing a share of ripeness; Indra becomes wholly his. For the non-presser he is neither kin nor comrade nor intimate; the ill-aided are driven down—mere empty utterance-bearers.
सु॒प्र॒ऽअ॒व्यः॑ । प्रा॒शु॒षाट् । ए॒षः । वी॒रः । सुस्वेः॑ । प॒क्तिम् । कृ॒णु॒ते॒ । केव॑ला । इन्द्रः॑ । न । असु॑स्वेः । आ॒पिः । न । सखा॑ । न । जा॒मिः । दुः॒प्र॒ऽअ॒व्यः॑ । अ॒व॒ऽह॒न्ता । इत् । अवा॑चः ॥सुप्रअव्यः । प्राशुषाट् । एषः । वीरः । सुस्वेः । पक्तिम् । कृणुते । केवला । इन्द्रः । न । असुस्वेः । आपिः । न । सखा । न । जामिः । दुःप्रअव्यः । अवहन्ता । इत् । अवाचः ॥supra-avyaḥ | prāśuṣāṭ | eṣaḥ | vīraḥ | susveḥ | paktim | kṛṇute | kevalā | indraḥ | na | asusveḥ | apiḥ | na | sakhā | na | jāmiḥ | duḥpra-avyaḥ | ava-hantā | it | avācaḥ