Sukta 4.25
न तं जिनन्ति बहवो न दभ्रा उर्वस्मा अदितिः शर्म यंसत् । प्रियः सुकृत्प्रिय इन्द्रे मनायुः प्रियः सुप्रावीः प्रियो अस्य सोमी ॥
न तं जि॑नन्ति ब॒हवो॒ न द॒भ्रा उ॒र्व॑स्मा॒ अदि॑ति॒: शर्म॑ यंसत् । प्रि॒यः सु॒कृत्प्रि॒य इन्द्रे॑ मना॒युः प्रि॒यः सु॑प्रा॒वीः प्रि॒यो अ॑स्य सो॒मी ॥
ná táṃ jinanti bahávo ná dabh्रā urv ásmā áditiḥ śárma yaṃsat | priyáḥ su-kṛ́t priyá índre manāyúḥ priyáḥ supra-avī́ḥ priyó asya somī́ ||
Many cannot overcome him, nor the few; for Aditi grants him a wide peace. Dear is he—doer of the good; dear to Indra in his thought-and-impulse; dear as one of strong protections; dear to him is the Soma-bearer.
न । तम् । जि॒न॒न्ति॒ । ब॒हवः॑ । न । द॒भ्राः । उ॒रु । अ॒स्मै॒ । अदि॑तिः । शर्म॑ । यं॒स॒त् । प्रि॒यः । सु॒ऽकृत् । प्रि॒यः । इन्द्रे॑ । म॒ना॒युः । प्रि॒यः । सु॒प्र॒ऽअ॒वीः । प्रि॒यः । अ॒स्य॒ । सो॒मी ॥न । तम् । जिनन्ति । बहवः । न । दभ्राः । उरु । अस्मै । अदितिः । शर्म । यंसत् । प्रियः । सुकृत् । प्रियः । इन्द्रे । मनायुः । प्रियः । सुप्रअवीः । प्रियः । अस्य । सोमी ॥na | tam | jinanti | bahavaḥ | na | dabhrāḥ | uru | asmai | aditiḥ | śarma | yaṃsat | priyaḥ | su-kṛt | priyaḥ | indre | manāyuḥ | priyaḥ | supra-avīḥ | priyaḥ | asya | somī