Sukta 4.25
न रेवता पणिना सख्यमिन्द्रोऽसुन्वता सुतपाः सं गृणीते । आस्य वेदः खिदति हन्ति नग्नं वि सुष्वये पक्तये केवलो भूत् ॥
न रे॒वता॑ प॒णिना॑ स॒ख्यमिन्द्रोऽसु॑न्वता सुत॒पाः सं गृ॑णीते । आस्य॒ वेद॑: खि॒दति॒ हन्ति॑ न॒ग्नं वि सुष्व॑ये प॒क्तये॒ केव॑लो भूत् ॥
ná revátā paṇínā sakhyám índro ’súnvatā suta-pā́ḥ sáṃ gṛṇīte | ā́sya védaḥ khidáti hánti nagnáṃ ví súsve paktáye kévalo bhūt ||
Indra makes no comradeship with the rich Paṇi; Soma-drinker, he consents not to the one who does not press. His knowledge afflicts and strikes down the naked emptiness; but for the good presser, for the ripened one, he becomes wholly present.
न । रे॒वता॑ । प॒णिना॑ । स॒ख्यम् । इन्द्रः॑ । असु॑न्वता । सु॒त॒ऽपाः । सम् । गृ॒णी॒ते॒ । आ । अ॒स्य॒ । वेदः॑ । खि॒दति॑ । हन्ति॑ । न॒ग्नम् । वि । सुस्व॑ये । प॒क्तये॑ । केव॑लः । भूत् ॥न । रेवता । पणिना । सख्यम् । इन्द्रः । असुन्वता । सुतपाः । सम् । गृणीते । आ । अस्य । वेदः । खिदति । हन्ति । नग्नम् । वि । सुस्वये । पक्तये । केवलः । भूत् ॥na | revatā | paṇinā | sakhyam | indraḥ | asunvatā | suta-pāḥ | sam | gṛṇīte | ā | asya | vedaḥ | khidati | hanti | nagnam | vi | susvaye | paktaye | kevalaḥ | bhūt