Sukta 4.25
को देवानामवो अद्या वृणीते क आदित्याँ अदितिं ज्योतिरीट्टे । कस्याश्विनाविन्द्रो अग्निः सुतस्यांशोः पिबन्ति मनसाविवेनम् ॥
को दे॒वाना॒मवो॑ अ॒द्या वृ॑णीते॒ क आ॑दि॒त्याँ अदि॑तिं॒ ज्योति॑रीट्टे । कस्या॒श्विना॒विन्द्रो॑ अ॒ग्निः सु॒तस्यां॒शोः पि॑बन्ति॒ मन॒सावि॑वेनम् ॥
kó devā́nām ávo adyā́ vṛṇīte ká ādityā́n áditiṃ jyótiḥ īṭṭe | kásyāśvínāv índro agníḥ sutásyāṃśóḥ pibanti mánasā́vivénam ||
Who today chooses the guardianship of the gods? Who worships the Ādityas—Aditi—the Light? For whom do the Aśvins, Indra, and Agni drink of the pressed share, with a mind free of division?
कः । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒ते॒ । कः । आ॒दि॒त्यान् । अदि॑तिम् । ज्योतिः॑ । ई॒ट्टे॒ । कस्य॑ । अ॒श्विनौ॑ । इन्द्रः॑ । अ॒ग्निः । सु॒तस्य॑ । अं॒शोः । पि॒ब॒न्ति॒ । मन॑सा । अवि॑ऽवेनम् ॥कः । देवानाम् । अवः । अद्य । वृणीते । कः । आदित्यान् । अदितिम् । ज्योतिः । ईट्टे । कस्य । अश्विनौ । इन्द्रः । अग्निः । सुतस्य । अंशोः । पिबन्ति । मनसा । अविवेनम् ॥kaḥ | devānām | avaḥ | adya | vṛṇīte | kaḥ | ādityān | aditim | jyotiḥ | īṭe | kasya | aśvi nau | indraḥ | agniḥ | sutasya | aṃśoḥ | pibanti | manasā | avi-venam