Sukta 4.25
को नानाम वचसा सोम्याय मनायुर्वा भवति वस्त उस्राः । क इन्द्रस्य युज्यं कः सखित्वं को भ्रात्रं वष्टि कवये क ऊती ॥
को ना॑नाम॒ वच॑सा सो॒म्याय॑ मना॒युर्वा॑ भवति॒ वस्त॑ उ॒स्राः । क इन्द्र॑स्य॒ युज्यं॒ कः स॑खि॒त्वं को भ्रा॒त्रं व॑ष्टि क॒वये॒ क ऊ॒ती ॥
kó nānāmá váca sā somyā́ya manāyúr vā bhavati vásta usrā́ḥ | ká índrasya yújyaṃ káḥ sakhitváṃ kó bhrā́traṃ vaṣṭi kaváye ká ūtī́ ||
Who bows with the word to the Soma-joy, becoming the mind’s ardor as the bright dawns clothe him? Who is fit to be yoked to Indra—who for comradeship, who chooses brotherhood for the seer, who is the true help?
कः । न॒ना॒म॒ । वच॑सा । सो॒म्याय॑ । म॒ना॒युः । वा॒ । भ॒व॒ति॒ । वस्ते॑ । उ॒स्राः । कः । इन्द्र॑स्य । युज्य॑म् । कः । स॒खि॒ऽत्वम् । कः । भ्रा॒त्रम् । व॒ष्टि॒ । क॒वये॑ । कः । ऊ॒ती ॥कः । ननाम । वचसा । सोम्याय । मनायुः । वा । भवति । वस्ते । उस्राः । कः । इन्द्रस्य । युज्यम् । कः । सखित्वम् । कः । भ्रात्रम् । वष्टि । कवये । कः । ऊती ॥kaḥ | nanāma | vacasā | somyāya | manāyuḥ | vā | bhavati | vaste | usrāḥ | kaḥ | indrasya | yujyam | kaḥ | sakhi-tvam | kaḥ | bhrātram | vaṣṭi | kavaye | kaḥ | ūtī