Sukta 4.25
को अद्य नर्यो देवकाम उशन्निन्द्रस्य सख्यं जुजोष । को वा महेऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे ॥
को अ॒द्य नर्यो॑ दे॒वका॑म उ॒शन्निन्द्र॑स्य स॒ख्यं जु॑जोष । को वा॑ म॒हेऽव॑से॒ पार्या॑य॒ समि॑द्धे अ॒ग्नौ सु॒तसो॑म ईट्टे ॥
kó adyá naryo devákāma uśán índrasya sakhyáṃ jujoṣa | kó vā mahé’vase pā́ryāya samíddhe agnáu sutásoma īṭṭe ||
Who today, a manly soul desiring the gods, chooses the friendship of Indra? Or who, for the great help that carries beyond, with Soma pressed, worships at the kindled Fire?
कः । अ॒द्य । नर्यः॑ । दे॒वऽका॑मः । उ॒शन् । इन्द्र॑स्य । स॒ख्यम् । जु॒जो॒ष॒ । कः । वा॒ । म॒हे । अव॑से । पार्या॑य । सम्ऽइ॑द्धे । अ॒ग्नौ । सु॒तऽसो॑मः । ई॒ट्टे॒ ॥कः । अद्य । नर्यः । देवकामः । उशन् । इन्द्रस्य । सख्यम् । जुजोष । कः । वा । महे । अवसे । पार्याय । सम्इद्धे । अग्नौ । सुतसोमः । ईट्टे ॥kaḥ | adya | naryaḥ | deva-kāmaḥ | uśan | indrasya | sakhyam | jujoṣa | kaḥ | vā | mahe | avase | pāryāya | sam-iddhe | agnau | suta-somaḥ | īṭe