Sukta 4.23
किमादमत्रं सख्यं सखिभ्यः कदा नु ते भ्रात्रं प्र ब्रवाम । श्रिये सुदृशो वपुरस्य सर्गाः स्वर्ण चित्रतममिष आ गोः ॥
किमादम॑त्रं स॒ख्यं सखि॑भ्यः क॒दा नु ते॑ भ्रा॒त्रं प्र ब्र॑वाम । श्रि॒ये सु॒दृशो॒ वपु॑रस्य॒ सर्गा॒: स्व१॒॑र्ण चि॒त्रत॑ममिष॒ आ गोः ॥
kím ād amátram sakhyáṃ sakhíbhyaḥ kadā́ nu té bhrā́traṃ prá bravāma | śriyé su-dṛ́śo vápur asyá sárgāḥ svàrṇa citrá-tamam iṣé ā́ góḥ ||
What is this measureless bond of comradeship for the comrades—and when indeed shall we proclaim your brotherhood? For the sake of splendor, the fair-seeing form of him is released in its outpourings; like heaven’s gold, most wondrous, it comes as the impulsion of the Cow (the radiant Light).
किम् । आत् । अम॑त्रम् । स॒ख्यम् । सखि॑ऽभ्यः । क॒दा । नु । ते॒ । भ्रा॒त्रम् । प्र । ब्र॒वा॒म॒ । श्रि॒ये । सु॒ऽदृशः॑ । वपुः॑ । अ॒स्य॒ । सर्गाः॑ । स्वः॑ । न । चि॒त्रऽत॑मम् । इ॒षे॒ । आ । गोः ॥किम् । आत् । अमत्रम् । सख्यम् । सखिभ्यः । कदा । नु । ते । भ्रात्रम् । प्र । ब्रवाम । श्रिये । सुदृशः । वपुः । अस्य । सर्गाः । स्वः । न । चित्रतमम् । इषे । आ । गोः ॥kim | āt | amatram | sakhyam | sakhi-bhyaḥ | kadā | nu | te | bhrātram | pra | bravāma | śriye | su-dṛśaḥ | vapuḥ | asya | sargāḥ | svaḥ | na | citra-tamam | iṣe | ā | goḥ