Sukta 4.23
कथा कदस्या उषसो व्युष्टौ देवो मर्तस्य सख्यं जुजोष । कथा कदस्य सख्यं सखिभ्यो ये अस्मिन्कामं सुयुजं ततस्रे ॥
क॒था कद॒स्या उ॒षसो॒ व्यु॑ष्टौ दे॒वो मर्त॑स्य स॒ख्यं जु॑जोष । क॒था कद॑स्य स॒ख्यं सखि॑भ्यो॒ ये अ॑स्मि॒न्कामं॑ सु॒युजं॑ तत॒स्रे ॥
kathā kad asyā́ḥ uṣáso ví-uṣṭau devó mártasya sakhyáṃ jujoṣa | kathā kad asyá sakhyáṃ sakhíbhyo yé asmín kā́maṃ su-yújaṃ tatasré ||
How and by what secret turn, at the dawning-out of this Dawn, does the god accept the mortal’s comradeship? How and by what means does he make that comradeship real among the comrades who here have stretched out the desire that is rightly yoked (to the divine purpose)?
क॒था । कत् । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टौ । दे॒वः । मर्त॑स्य । स॒ख्यम् । जु॒जो॒ष॒ । क॒था । कत् । अ॒स्य॒ । स॒ख्यम् । सखि॑ऽभ्यः । ये । अ॒स्मि॒न् । काम॑म् । सु॒ऽयुज॑म् । त॒त॒स्रे ॥कथा । कत् । अस्याः । उषसः । विउष्टौ । देवः । मर्तस्य । सख्यम् । जुजोष । कथा । कत् । अस्य । सख्यम् । सखिभ्यः । ये । अस्मिन् । कामम् । सुयुजम् । ततस्रे ॥kathā | kat | asyāḥ | uṣasaḥ | vi-uṣṭau | devaḥ | martasya | sakhyam | jujoṣa | kathā | kat | asya | sakhyam | sakhi-bhyaḥ | ye | asmin | kāmam | su-yujam | tatasre