Sukta 4.23
कथा सबाधः शशमानो अस्य नशदभि द्रविणं दीध्यानः । देवो भुवन्नवेदा म ऋतानां नमो जगृभ्वाँ अभि यज्जुजोषत् ॥
क॒था स॒बाध॑: शशमा॒नो अ॑स्य॒ नश॑द॒भि द्रवि॑णं॒ दीध्या॑नः । दे॒वो भु॑व॒न्नवे॑दा म ऋ॒तानां॒ नमो॑ जगृ॒भ्वाँ अ॒भि यज्जुजो॑षत् ॥
kathā́ sa-bā́dhaḥ śaśamā́nó asya náśad abhí dráviṇaṃ dīdhyā́naḥ | devó bhúvann ávedā ma ṛtā́nāṃ námo jagṛbhvā́n abhí yáj jujoṣat ||
How may the striver, breaking through all constraint, reach his wealth by luminous thought? Becoming divine, may he know the truths; taking up the reverence, may he be accepted in what he offers.
क॒था । स॒ऽबाधः॑ । श॒श॒मा॒नः । अ॒स्य॒ । नश॑त् । अ॒भि । द्रवि॑णम् । दीध्या॑नः । दे॒वः । भ॒व॒त् । नवे॑दाः । मे॒ । ऋ॒ताना॑म् । नमः॑ । ज॒गृ॒भ्वान् । अ॒भि । यत् । जुजो॑षत् ॥कथा । सबाधः । शशमानः । अस्य । नशत् । अभि । द्रविणम् । दीध्यानः । देवः । भवत् । नवेदाः । मे । ऋतानाम् । नमः । जगृभ्वान् । अभि । यत् । जुजोषत् ॥kathā | sa-bādhaḥ | śaśamānaḥ | asya | naśat | abhi | draviṇam | dīdhyānaḥ | devaḥ | bhavat | navedāḥ | me | ṛtānām | namaḥ | jagṛbhvān | abhi | yat | jujoṣat