Sukta 4.23
कथा शृणोति हूयमानमिन्द्रः कथा शृण्वन्नवसामस्य वेद । का अस्य पूर्वीरुपमातयो ह कथैनमाहुः पपुरिं जरित्रे ॥
क॒था शृ॑णोति हू॒यमा॑न॒मिन्द्र॑: क॒था शृ॒ण्वन्नव॑सामस्य वेद । का अ॑स्य पू॒र्वीरुप॑मातयो ह क॒थैन॑माहु॒: पपु॑रिं जरि॒त्रे ॥
kathā́ śṛṇóti hūyámānam índraḥ kathā́ śṛṇván ávasām asya veda | kā́ asya pūrvī́r úpa-mātayo ha katháinam ā́huḥ pápuriṃ jaritré ||
How does Indra hear when he is being called, how, hearing, does he know the acts of help? What are his ancient measures and standards—how do they speak of him as the drinker, for the praiser?
क॒था । शृ॒णो॒ति॒ । हू॒यमा॑नम् । इन्द्रः॑ । क॒था । शृ॒ण्वन् । अव॑साम् । अ॒स्य॒ । वे॒द॒ । काः । अ॒स्य॒ । पू॒र्वीः । उप॑ऽमातयः । ह॒ । क॒था । ए॒न॒म् । आहुः॑ । पपु॑रिम् । ज॒रि॒त्रे ॥कथा । शृणोति । हूयमानम् । इन्द्रः । कथा । शृण्वन् । अवसाम् । अस्य । वेद । काः । अस्य । पूर्वीः । उपमातयः । ह । कथा । एनम् । आहुः । पपुरिम् । जरित्रे ॥kathā | śṛṇoti | hūyamānam | indraḥ | kathā | śṛṇvan | avasām | asya | veda | kāḥ | asya | pūrvīḥ | upa-mātayaḥ | ha | kathā | enam | āhuḥ | papurim | jaritre