Sukta 4.23
को अस्य वीरः सधमादमाप समानंश सुमतिभिः को अस्य । कदस्य चित्रं चिकिते कदूती वृधे भुवच्छशमानस्य यज्योः ॥
को अ॑स्य वी॒रः स॑ध॒माद॑माप॒ समा॑नंश सुम॒तिभि॒: को अ॑स्य । कद॑स्य चि॒त्रं चि॑किते॒ कदू॒ती वृ॒धे भु॑वच्छशमा॒नस्य॒ यज्यो॑: ॥
kó asya vīráḥ sadha-mā́dam ā́pa sám ānaṃśa sumatí-bhiḥ kó asya | kád asya citráṃ cikite kád ūtī́ vṛdhé bhúvac chaśamā́nasyá yájyōḥ ||
Who is his hero that attained the common gladness, who shared it by good understandings—who is his? What of his wonder does one discern, what is his succour, that he may grow for the strong striver, the one worthy of offering?
कः । अ॒स्य॒ । वी॒रः । स॒ध॒ऽमाद॑म् । आ॒प॒ । सम् । आ॒नं॒श॒ । सु॒म॒तिऽभिः॑ । कः । अ॒स्य॒ । कत् । अ॒स्य॒ । चि॒त्रम् । चि॒कि॒ते॒ । कत् । ऊ॒ती । वृ॒धे । भु॒व॒त् । श॒श॒मा॒नस्य॑ । यज्योः॑ ॥कः । अस्य । वीरः । सधमादम् । आप । सम् । आनंश । सुमतिभिः । कः । अस्य । कत् । अस्य । चित्रम् । चिकिते । कत् । ऊती । वृधे । भुवत् । शशमानस्य । यज्योः ॥kaḥ | asya | vīraḥ | sadha-mādam | āpa | sam | ānaṃśa | sumati-bhiḥ | kaḥ | asya | kat | asya | citram | cikite | kat | ūtī | vṛdhe | bhuvat | śaśamānasya | yajyoḥ