Sukta 4.22
अस्मे वर्षिष्ठा कृणुहि ज्येष्ठा नृम्णानि सत्रा सहुरे सहांसि । अस्मभ्यं वृत्रा सुहनानि रन्धि जहि वधर्वनुषो मर्त्यस्य ॥
अ॒स्मे वर्षि॑ष्ठा कृणुहि॒ ज्येष्ठा॑ नृ॒म्णानि॑ स॒त्रा स॑हुरे॒ सहां॑सि । अ॒स्मभ्यं॑ वृ॒त्रा सु॒हना॑नि रन्धि ज॒हि वध॑र्व॒नुषो॒ मर्त्य॑स्य ॥
asmé várṣiṣṭhā kṛṇuhi jyéṣṭhā nṛmṇā́ni satrā́ sahure sáhāṃsi | asmábhyaṃ vṛtrā́ su-hánāni randhi jahí vádhar vanúṣo mártyasya ||
In us make thy most raining, thy eldest powers—heroic forces that conquer in the continual battle. For us, O slayer of Vṛtra, grant the good slayings; strike down the weapon of the mortal who seeks to wound.
अ॒स्मे इति॑ । वर्षि॑ष्ठा । कृ॒णु॒हि॒ । ज्येष्ठा॑ । नृ॒म्णानि॑ । स॒त्रा । स॒हु॒रे॒ । सहां॑सि । अ॒स्मभ्य॑म् । वृ॒त्रा । सु॒ऽहना॑नि । र॒न्धि॒ । ज॒हि । वधः॑ । व॒नुषः॑ । मर्त्य॑स्य ॥अस्मे इति । वर्षिष्ठा । कृणुहि । ज्येष्ठा । नृम्णानि । सत्रा । सहुरे । सहांसि । अस्मभ्यम् । वृत्रा । सुहनानि । रन्धि । जहि । वधः । वनुषः । मर्त्यस्य ॥asme iti | varṣiṣṭhā | kṛṇuhi | jyeṣṭhā | nṛmṇāni | satrā | sahure | sahāṃsi | asmabhyam | vṛtrā | su-hanāni | randhi | jahi | vadhaḥ | vanuṣaḥ | martyasya