Sukta 4.22
अस्माकमित्सु शृणुहि त्वमिन्द्रास्मभ्यं चित्राँ उप माहि वाजान् । अस्मभ्यं विश्वा इषणः पुरंधीरस्माकं सु मघवन्बोधि गोदाः ॥
अ॒स्माक॒मित्सु शृ॑णुहि॒ त्वमि॑न्द्रा॒स्मभ्यं॑ चि॒त्राँ उप॑ माहि॒ वाजा॑न् । अ॒स्मभ्यं॒ विश्वा॑ इषण॒: पुरं॑धीर॒स्माकं॒ सु म॑घवन्बोधि गो॒दाः ॥
asmā́kam ítsu śṛṇuhi tvám indrāsmábhyaṃ citrā́ṃ úpa māhi vā́jān | asmábhyaṃ víśvā iṣaṇaḥ púraṃdhīr asmā́kaṃ sú maghavan bodhi godā́ḥ ||
Hear thou, O Indra, only us; bring near to us the many-hued plenitudes of force. For us set in motion all inspirations and fulfillments; for us, O bounteous one, become awake as the giver of the Light (the cows).
अ॒स्माकम् । इत् । सु । शृ॒णु॒हि॒ । त्वम् । इ॒न्द्र॒ । अ॒स्मभ्य॑म् । चि॒त्रान् । उप॑ । मा॒हि॒ । वाजा॑न् । अ॒स्मभ्य॑म् । विश्वाः॑ । इ॒ष॒णः॒ । पुर॑म्ऽधीः । अ॒स्माक॑म् । सु । म॒घ॒ऽव॒न् । बो॒धि॒ । गो॒दाः ॥अस्माकम् । इत् । सु । शृणुहि । त्वम् । इन्द्र । अस्मभ्यम् । चित्रान् । उप । माहि । वाजान् । अस्मभ्यम् । विश्वाः । इषणः । पुरम्धीः । अस्माकम् । सु । मघवन् । बोधि । गोदाः ॥asmākam | it | su | śṛṇuhi | tvam | indra | asmabhyam | citrān | upa | māhi | vājān | asmabhyam | viśvāḥ | iṣaṇaḥ | puram-dhīḥ | asmākam | su | magha-van | bodhi | godāḥ