Sukta 4.22
पिपीळे अंशुर्मद्यो न सिन्धुरा त्वा शमी शशमानस्य शक्तिः । अस्मद्र्यक्छुशुचानस्य यम्या आशुर्न रश्मिं तुव्योजसं गोः ॥
पि॒पी॒ळे अं॒शुर्मद्यो॒ न सिन्धु॒रा त्वा॒ शमी॑ शशमा॒नस्य॑ श॒क्तिः । अ॒स्म॒द्र्य॑क्छुशुचा॒नस्य॑ यम्या आ॒शुर्न र॒श्मिं तु॒व्योज॑सं॒ गोः ॥
pipīḷé aṃśúr mádyo ná síndhur ā́ tvā śámī śaśamā́nasyá śaktíḥ | asmadryák chuśucā́nasyá yamyā́ āśúr ná raśmíṃ tuvyójasaṃ góḥ ||
The Soma-stalk, like an intoxicating river, has filled itself; to thee it comes—this force of the seeker who strives. And it draws toward us the yoking of the flaming energy, like the swift ray of the Cow, of vast puissance.
पि॒पी॒ळे । अं॒शुः । मद्यः॑ । न । सिन्धुः॑ । आ । त्वा॒ । शमी॑ । श॒श॒मा॒नस्य॑ । श॒क्तिः । अ॒स्म॒द्र्य॑क् । शु॒शु॒मा॒नस्य॑ । य॒म्याः॒ । आ॒शुः । न । र॒श्मिम् । तु॒वि॒ऽओज॑सम् । गोः ॥पिपीळे । अंशुः । मद्यः । न । सिन्धुः । आ । त्वा । शमी । शशमानस्य । शक्तिः । अस्मद्र्यक् । शुशुमानस्य । यम्याः । आशुः । न । रश्मिम् । तुविओजसम् । गोः ॥pipīḷe | aṃśuḥ | madyaḥ | na | sindhuḥ | ā | tvā | śamī | śaśamānasya | śaktiḥ | asmadryak | śuśumānasya | yamyāḥ | āśuḥ | na | raśmim | tuvi-ojasam | goḥ