Sukta 4.22
ता तू ते सत्या तुविनृम्ण विश्वा प्र धेनवः सिस्रते वृष्ण ऊध्नः । अधा ह त्वद्वृषमणो भियानाः प्र सिन्धवो जवसा चक्रमन्त ॥
ता तू ते॑ स॒त्या तु॑विनृम्ण॒ विश्वा॒ प्र धे॒नव॑: सिस्रते॒ वृष्ण॒ ऊध्न॑: । अधा॑ ह॒ त्वद्वृ॑षमणो भिया॒नाः प्र सिन्ध॑वो॒ जव॑सा चक्रमन्त ॥
tā tū́ te satyā́ tuvi-nṛmṇa víśvā prá dhenávaḥ sisrate vṛ́ṣṇa ū́dhnaḥ | ádhā ha tvád-vṛṣamaṇo bhiyānā́ḥ prá síndhavo jávasā cakramanta ||
These, indeed, are thy true powers of vast manhood: all the milch-cows stream forth from the Bull’s udder. Then the rivers, moved by thy impetuous might, run forward in speed, as if in awe before thee.
ता । तु । ते॒ । स॒त्या । तु॒वि॒ऽनृ॒म्ण॒ । विश्वा॑ । प्र । धे॒नवः॑ । सि॒स्र॒ते॒ । वृष्णः॑ । ऊध्नः॑ । अध॑ । ह॒ । त्वत् । वृ॒ष॒ऽम॒नः॒ । भि॒या॒नाः । प्र । सिन्ध॑वः । जव॑सा । च॒क्र॒म॒न्त॒ ॥ता । तु । ते । सत्या । तुविनृम्ण । विश्वा । प्र । धेनवः । सिस्रते । वृष्णः । ऊध्नः । अध । ह । त्वत् । वृषमनः । भियानाः । प्र । सिन्धवः । जवसा । चक्रमन्त ॥tā | tu | te | satyā | tuvi-nṛmṇa | viśvā | pra | dhenavaḥ | sisrate | vṛṣṇaḥ | ūdhnaḥ | adha | ha | tvat | vṛṣa-manaḥ | bhiyānāḥ | pra | sindhavaḥ | javasā | cakramanta