Sukta 4.22
ता तू त इन्द्र महतो महानि विश्वेष्वित्सवनेषु प्रवाच्या । यच्छूर धृष्णो धृषता दधृष्वानहिं वज्रेण शवसाविवेषीः ॥
ता तू त॑ इन्द्र मह॒तो म॒हानि॒ विश्वे॒ष्वित्सव॑नेषु प्र॒वाच्या॑ । यच्छू॑र धृष्णो धृष॒ता द॑धृ॒ष्वानहिं॒ वज्रे॑ण॒ शव॒सावि॑वेषीः ॥
tā́ tū́ te indra maható mahā́ni víśveṣv ít sávanēṣu pra-vā́cyā | yác chū́ra dhṛṣṇó dhṛṣátā dadhṛṣvā́n áhīṃ vájreṇa śávasā́viveṣīḥ ||
These, indeed, O Indra, are your great deeds of the Great One, to be proclaimed in every pressing. For you, O hero, daring with the daring force, utterly bold, did strike the serpent with the thunderbolt by your might.
ता । तु । ते॒ । इ॒न्द्र॒ । म॒ह॒तः । म॒हानि॑ । विश्वे॑षु । इत् । सव॑नेषु । प्र॒ऽवाच्या॑ । यत् । शू॒र॒ । धृ॒ष्णो॒ इति॑ । धृ॒ष॒ता । द॒धृ॒ष्वान् । अहि॑म् । वज्रे॑ण । शव॑सा । अवि॑वेषीः ॥ता । तु । ते । इन्द्र । महतः । महानि । विश्वेषु । इत् । सवनेषु । प्रवाच्या । यत् । शूर । धृष्णो इति । धृषता । दधृष्वान् । अहिम् । वज्रेण । शवसा । अविवेषीः ॥tā | tu | te | indra | mahataḥ | mahāni | viśveṣu | it | savaneṣu | pra-vācyā | yat | śūra | dhṛṣṇo iti | dhṛṣatā | dadhṛṣvān | ahim | vajreṇa | śavasā | aviveṣīḥ