Sukta 4.22
विश्वा रोधांसि प्रवतश्च पूर्वीर्द्यौॠष्वाज्जनिमन्रेजत क्षाः । आ मातरा भरति शुष्म्या गोर्नृवत्परिज्मन्नोनुवन्त वाताः ॥
विश्वा॒ रोधां॑सि प्र॒वत॑श्च पू॒र्वीर्द्यौॠ॒ष्वाज्जनि॑मन्रेजत॒ क्षाः । आ मा॒तरा॒ भर॑ति शु॒ष्म्या गोर्नृ॒वत्परि॑ज्मन्नोनुवन्त॒ वाता॑: ॥
viśvā́ rodhā́ṃsi pra-vátaś ca pūrvī́r dyáuḥ ṛṣvā́j jániman rejata kṣā́ḥ | ā́ mā́tarā bhárati śuṣmyā́ gór nṛ-vát parí-jmann nonuvanta vā́tāḥ ||
All the barriers and the ancient slopes—heaven from its high birth shook, and earth. He brings the two Mothers forward with the impetuous light; the winds, manlike in their circling motion, drive on.
विश्वा॑ । रोधां॑सि । प्र॒ऽवतः॑ । च॒ । पू॒र्वीः । द्यौः । ऋ॒ष्वात् । जनि॑मन् । रे॒ज॒त॒ । क्षाः । आ । मा॒तरा॑ । भर॑ति । शु॒ष्मी । आ । गोः । नृ॒ऽवत् । परि॑ऽज्मन् । नो॒नु॒व॒न्त॒ । वाताः॑ ॥विश्वा । रोधांसि । प्रवतः । च । पूर्वीः । द्यौः । ऋष्वात् । जनिमन् । रेजत । क्षाः । आ । मातरा । भरति । शुष्मी । आ । गोः । नृवत् । परिज्मन् । नोनुवन्त । वाताः ॥viśvā | rodhāṃsi | pra-vataḥ | ca | pūrvīḥ | dyauḥ | ṛṣvāt | janiman | rejata | kṣāḥ | ā | mātarā | bharati | śuṣmī | ā | goḥ | nṛ-vat | pari-jman | nonuvanta | vātāḥ