Sukta 4.22
यो देवो देवतमो जायमानो महो वाजेभिर्महद्भिश्च शुष्मैः । दधानो वज्रं बाह्वोरुशन्तं द्याममेन रेजयत्प्र भूम ॥
यो दे॒वो दे॒वत॑मो॒ जाय॑मानो म॒हो वाजे॑भिर्म॒हद्भि॑श्च॒ शुष्मै॑: । दधा॑नो॒ वज्रं॑ बा॒ह्वोरु॒शन्तं॒ द्याममे॑न रेजय॒त्प्र भूम॑ ॥
yó devó devátamo jā́yamāno mahó vājébhir mahádbhiś ca śúṣmaiḥ | dádhāno vájraṃ bāhvór uśántaṃ dyā́m aména rejáyat prá bhū́ma ||
He who, born, is the god most godlike—great with great plenitudes of force and with mighty impetuosities—bearing the desired thunderbolt in his arms, he made heaven tremble and the earth surge forth.
यः । दे॒वः । दे॒वऽत॑मः । जाय॑मानः । म॒हः । वाजे॑भिः । म॒हत्ऽभिः॑ । च॒ । शुष्मैः॑ । दधा॑नः । वज्र॑म् । बा॒ह्वोः । उ॒शन्त॑म् । द्याम् । अमे॑न । रे॒ज॒य॒त् । प्र । भूम॑ ॥यः । देवः । देवतमः । जायमानः । महः । वाजेभिः । महत्भिः । च । शुष्मैः । दधानः । वज्रम् । बाह्वोः । उशन्तम् । द्याम् । अमेन । रेजयत् । प्र । भूम ॥yaḥ | devaḥ | deva-tamaḥ | jāyamānaḥ | mahaḥ | vājebhiḥ | mahat-bhiḥ | ca | śuṣmaiḥ | dadhānaḥ | vajram | bāhvoḥ | uśantam | dyām | amena | rejayat | pra | bhūma