Sukta 4.22
वृषा वृषन्धिं चतुरश्रिमस्यन्नुग्रो बाहुभ्यां नृतमः शचीवान् । श्रिये परुष्णीमुषमाण ऊर्णां यस्याः पर्वाणि सख्याय विव्ये ॥
वृषा॒ वृष॑न्धिं॒ चतु॑रश्रि॒मस्य॑न्नु॒ग्रो बा॒हुभ्यां॒ नृत॑म॒: शची॑वान् । श्रि॒ये परु॑ष्णीमु॒षमा॑ण॒ ऊर्णां॒ यस्या॒: पर्वा॑णि स॒ख्याय॑ वि॒व्ये ॥
vṛ́ṣā vṛ́ṣandhiṃ cátur-aśrim ásyann ugró bāhúbhyāṃ nṛ́-tamaḥ śacī́vān | śríye púruṣṇīm uṣámāṇa ūrṇā́ṃ yásyāḥ párvāṇi sakhyā́ya vivyé ||
The Bull, hurling the four-edged, strong-jointed (weapon), the fierce one, most manful, full of power with his arms—he, for splendour, wraps the many-streaming (river) like wool; her joints he has woven for friendship.
वृषा॑ । वृष॑न्धिम् । चतुः॑ऽअश्रिम् । अस्य॑न् । उ॒ग्रः । बा॒हुऽभ्या॑म् । नृऽत॑मः । शची॑ऽवान् । श्रि॒ये । परु॑ष्णीम् । उ॒षमा॑णः । ऊर्णा॑म् । यस्याः॑ । पर्वा॑णि । स॒ख्याय॑ । वि॒व्ये ॥वृषा । वृषन्धिम् । चतुःअश्रिम् । अस्यन् । उग्रः । बाहुभ्याम् । नृतमः । शचीवान् । श्रिये । परुष्णीम् । उषमाणः । ऊर्णाम् । यस्याः । पर्वाणि । सख्याय । विव्ये ॥vṛṣā | vṛṣandhim | catuḥ-aśrim | asyan | ugraḥ | bāhu-bhyām | nṛ-tamaḥ | śacī-vān | śriye | paruṣṇīm | uṣamāṇaḥ | ūrṇām | yasyāḥ | parvāṇi | sakhyāya | vivye