Sukta 4.22
यन्न इन्द्रो जुजुषे यच्च वष्टि तन्नो महान्करति शुष्म्या चित् । ब्रह्म स्तोमं मघवा सोममुक्था यो अश्मानं शवसा बिभ्रदेति ॥
यन्न॒ इन्द्रो॑ जुजु॒षे यच्च॒ वष्टि॒ तन्नो॑ म॒हान्क॑रति शु॒ष्म्या चि॑त् । ब्रह्म॒ स्तोमं॑ म॒घवा॒ सोम॑मु॒क्था यो अश्मा॑नं॒ शव॑सा॒ बिभ्र॒देति॑ ॥
yán na índro jujuṣé yác ca váṣṭi tán no mahā́n karati śuṣmyā́ cit | bráhma stómaṃ maghávā sómam ukthā́ yó aśmā́naṃ śávasā bíbhrad éti ||
Whatever Indra accepts from us and whatever he desires, that the Mighty One accomplishes for us—even by his impetuous power. He, the bountiful, upholds the word, the chant, the Soma, the hymn: he who goes bearing the stone with force.
यत् । नः॒ । इन्द्रः॑ । जु॒जु॒षे । यत् । च॒ । व॒ष्टि॒ । तत् । नः॒ । म॒हान् । क॒र॒ति॒ । शु॒ष्मी । आ । चि॒त् । ब्रह्म॑ । स्तोम॑म् । म॒घऽवा॑ । सोम॑म् । उ॒क्था । यः । अश्मा॑नम् । शव॑सा । बिभ्र॑त् । एति॑ ॥यत् । नः । इन्द्रः । जुजुषे । यत् । च । वष्टि । तत् । नः । महान् । करति । शुष्मी । आ । चित् । ब्रह्म । स्तोमम् । मघवा । सोमम् । उक्था । यः । अश्मानम् । शवसा । बिभ्रत् । एति ॥yat | naḥ | indraḥ | jujuṣe | yat | ca | vaṣṭi | tat | naḥ | mahān | karati | śuṣmī | ā | cit | brahma | stomam | magha-vā | somam | ukthā | yaḥ | aśmānam | śavasā | bibhrat | eti