Sukta 4.22
नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥
नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः । अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्य॑: सदा॒साः ॥
nū́ ṣṭutá indra nū́ gṛṇānó íṣaṃ jaritré nádyō ná pīpeḥ | ákāri te hari-vo bráhma návyaṃ dhiyā́ syāma rathyàḥ sadā́sāḥ ||
Now praised, O Indra—now sung—mayest thou swell the impulsion in the praiser as rivers swell. A new formative word has been made for thee, O lord of the tawny steeds; by the vision may we be ever fit for the chariot-path (fit instruments of thy onward movement).
नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः । अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । सदा॒ऽसाः ॥नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः । अकारि । ते । हरिवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदासाः ॥nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperitipīpeḥ | akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadāsāḥ