Sukta 4.20
कया तच्छृण्वे शच्या शचिष्ठो यया कृणोति मुहु का चिदृष्वः । पुरु दाशुषे विचयिष्ठो अंहोऽथा दधाति द्रविणं जरित्रे ॥
कया॒ तच्छृ॑ण्वे॒ शच्या॒ शचि॑ष्ठो॒ यया॑ कृ॒णोति॒ मुहु॒ का चि॑दृ॒ष्वः । पु॒रु दा॒शुषे॒ विच॑यिष्ठो॒ अंहोऽथा॑ दधाति॒ द्रवि॑णं जरि॒त्रे ॥
kayā́ tát śṛṇve śacyā́ śáciṣṭho yayā́ kṛṇóti múhu kā́ cid ṛṣváḥ | purú dāśúṣe ví-cayiṣṭho áṃho 'thā́ dadhāti dráviṇaṃ jaritré ||
By what effective power of thy Wisdom (śacyā), O most capable (śaciṣṭha), do I hear that thou again and again accomplishest even the difficult? Thou who discernest and separatest the peril (aṃhas) for the giver, then thou establishest the true substance of wealth (draviṇa) in the singer.
कया॑ । तत् । शृ॒ण्वे॒ । शच्या॑ । शचि॑ष्ठः । यया॑ । कृ॒णोति॑ । मुहु॑ । का । चि॒त् । दृ॒ष्वः । पु॒रु । दा॒शुषे॑ । विऽच॑यिष्ठः । अंहः॑ । अथ॑ । द॒धा॒ति॒ । द्रवि॑णम् । ज॒रि॒त्रे ॥कया । तत् । शृण्वे । शच्या । शचिष्ठः । यया । कृणोति । मुहु । का । चित् । दृष्वः । पुरु । दाशुषे । विचयिष्ठः । अंहः । अथ । दधाति । द्रविणम् । जरित्रे ॥kayā | tat | śṛṇve | śacyā | śaciṣṭhaḥ | yayā | kṛṇoti | muhu | kā | cit | dṛṣvaḥ | puru | dāśuṣe | vi-cayiṣṭhaḥ | aṃhaḥ | atha | dadhāti | draviṇam | jaritre