Sukta 4.20
ईक्षे रायः क्षयस्य चर्षणीनामुत व्रजमपवर्तासि गोनाम् । शिक्षानरः समिथेषु प्रहावान्वस्वो राशिमभिनेतासि भूरिम् ॥
ईक्षे॑ रा॒यः क्षय॑स्य चर्षणी॒नामु॒त व्र॒जम॑पव॒र्तासि॒ गोना॑म् । शि॒क्षा॒न॒रः स॑मि॒थेषु॑ प्र॒हावा॒न्वस्वो॑ रा॒शिम॑भिने॒तासि॒ भूरि॑म् ॥
īkṣé rāyáḥ kṣáyasya carṣaṇīnā́m utá vrajám apa-vartā́si gónām | śikṣā-naráḥ sam-ithéṣu pra-hā́vān vásvo rāśím abhi-netā́si bhū́rim ||
You look upon and govern the plenitude (rāyas) and the abiding dwelling (kṣaya) of the human peoples; and you are the one who turns back (releases) the closed pen of the Rays of Light (go). Training the aspiring man in the battles within, striking down the obstructors, you lead us to the great heap of true riches (vasu) in abundance.
ईक्षे॑ । रा॒यः । क्षय॑स्य । च॒र्ष॒णी॒नाम् । उ॒त । व्र॒जम् । अ॒प॒ऽव॒र्ता । अ॒सि॒ । गोना॑म् । शि॒क्षा॒ऽन॒रः । स॒म्ऽइ॒थेषु॑ । प्र॒हाऽवा॒न् । वस्वः॑ । रा॒शिम् । अ॒भि॒ऽने॒ता । अ॒सि॒ । भूरि॑म् ॥ईक्षे । रायः । क्षयस्य । चर्षणीनाम् । उत । व्रजम् । अपवर्ता । असि । गोनाम् । शिक्षानरः । सम्इथेषु । प्रहावान् । वस्वः । राशिम् । अभिनेता । असि । भूरिम् ॥īkṣe | rāyaḥ | kṣayasya | carṣaṇīnām | uta | vrajam | apa-vartā | asi | gonām | śikṣānaraḥ | sam-itheṣu | prahāvān | vasvaḥ | rāśim | abhi-netā | asi | bhūrim