Sukta 4.20
मा नो मर्धीरा भरा दद्धि तन्नः प्र दाशुषे दातवे भूरि यत्ते । नव्ये देष्णे शस्ते अस्मिन्त उक्थे प्र ब्रवाम वयमिन्द्र स्तुवन्तः ॥
मा नो॑ मर्धी॒रा भ॑रा द॒द्धि तन्न॒: प्र दा॒शुषे॒ दात॑वे॒ भूरि॒ यत्ते॑ । नव्ये॑ दे॒ष्णे श॒स्ते अ॒स्मिन्त॑ उ॒क्थे प्र ब्र॑वाम व॒यमि॑न्द्र स्तु॒वन्त॑: ॥
mā́ no mardhīr ā́ bharā daddhí tán naḥ prá dāśúṣe dā́tave bhū́ri yát te | návye deṣṇé śasté asmín ta ukthe prá bravāma vayám indra stuvántaḥ ||
Do not crush us; bring to us and establish that for us—abundantly—so that the giver may truly give. In this new act of bestowal, in this praise and utterance, we, O Indra, proclaim it forth as we adore thee.
मा । नः॒ । म॒र्धीः॒ । आ । भ॒र॒ । द॒द्धि । तत् । नः॒ । प्र । दा॒शुषे॑ । दात॑वे । भूरि॑ । यत् । ते॒ । नव्ये॑ । दे॒ष्णे । श॒स्ते । अ॒स्मिन् । ते॒ । उ॒क्थे । प्र । ब्र॒वा॒म॒ । व॒यम् । इ॒न्द्र॒ । स्तु॒वन्तः॑ ॥मा । नः । मर्धीः । आ । भर । दद्धि । तत् । नः । प्र । दाशुषे । दातवे । भूरि । यत् । ते । नव्ये । देष्णे । शस्ते । अस्मिन् । ते । उक्थे । प्र । ब्रवाम । वयम् । इन्द्र । स्तुवन्तः ॥mā | naḥ | mardhīḥ | ā | bhara | daddhi | tat | naḥ | pra | dāśuṣe | dātave | bhūri | yat | te | navye | deṣṇe | śaste | asmin | te | ukthe | pra | bravāma | vayam | indra | stuvantaḥ