Sukta 4.20
न यस्य वर्ता जनुषा न्वस्ति न राधस आमरीता मघस्य । उद्वावृषाणस्तविषीव उग्रास्मभ्यं दद्धि पुरुहूत रायः ॥
न यस्य॑ व॒र्ता ज॒नुषा॒ न्वस्ति॒ न राध॑स आमरी॒ता म॒घस्य॑ । उ॒द्वा॒वृ॒षा॒णस्त॑विषीव उग्रा॒स्मभ्यं॑ दद्धि पुरुहूत रा॒यः ॥
ná yásya vartā́ jánuṣā nú asti ná rā́dhasa āmarītā́ mághasya | ud-vā-vṛṣāṇás taviṣī-va ugrā́smábhyaṃ daddhi puru-hūta rā́yaḥ ||
There is no limit to his course by birth, no failing of the bounty of the bounteous. Pouring forth in uprising strength, O mighty one of irresistible force—give to us, O much-invoked, the rays of plenitude.
न । यस्य॑ । व॒र्ता । ज॒नुषा॑ । नु । अस्ति॑ । न । राध॑सः । आ॒ऽम॒री॒ता । म॒घस्य॑ । उ॒त्ऽव॒वृ॒षा॒णः । त॒वि॒षी॒ऽवः॒ । उ॒ग्र॒ । अ॒स्मभ्य॑म् । द॒द्धि॒ । पु॒रु॒ऽहू॒त॒ । रा॒यः ॥न । यस्य । वर्ता । जनुषा । नु । अस्ति । न । राधसः । आमरीता । मघस्य । उत्ववृषाणः । तविषीवः । उग्र । अस्मभ्यम् । दद्धि । पुरुहूत । रायः ॥na | yasya | vartā | januṣā | nu | asti | na | rādhasaḥ | āmarītā | maghasya | ut-vavṛṣāṇaḥ | taviṣī-vaḥ | ugra | asmabhyam | daddhi | puru-hūta | rāyaḥ