Sukta 4.20
गिरिर्न यः स्वतवाँ ऋष्व इन्द्रः सनादेव सहसे जात उग्रः । आदर्ता वज्रं स्थविरं न भीम उद्नेव कोशं वसुना न्यृष्टम् ॥
गि॒रिर्न यः स्वत॑वाँ ऋ॒ष्व इन्द्र॑: स॒नादे॒व सह॑से जा॒त उ॒ग्रः । आद॑र्ता॒ वज्रं॒ स्थवि॑रं॒ न भी॒म उ॒द्नेव॒ कोशं॒ वसु॑ना॒ न्यृ॑ष्टम् ॥
girí r na yáḥ sva-távāṃ ṛ́ṣva índraḥ sanā́d eva sáhase jātá ugráḥ | ā́dartā vájraṃ stháviraṃ na bhīmá udnā́ iva kóśaṃ vásunā ny-ṛ́ṣṭam ||
Like a mountain in his self-strength stands lofty Indra; from of old he is born for might, the formidable. He upholds the thunderbolt, firm and not to be feared; like a treasure-chest set deep in the waters, stored with riches, he holds within the plenitudes.
गि॒रिः । न । यः । स्वऽत॑वान् । ऋ॒ष्वः । इन्द्रः॑ । स॒नात् । ए॒व । सह॑से । जा॒तः । उ॒ग्रः । आऽद॑र्ता । वज्र॑म् । स्थवि॑रम् । न । भी॒मः । उ॒द्नाऽइ॑व । कोश॑म् । वसु॑ना । निऽऋ॑ष्टम् ॥गिरिः । न । यः । स्वतवान् । ऋष्वः । इन्द्रः । सनात् । एव । सहसे । जातः । उग्रः । आदर्ता । वज्रम् । स्थविरम् । न । भीमः । उद्नाइव । कोशम् । वसुना । निऋष्टम् ॥giriḥ | na | yaḥ | sva-tavān | ṛṣvaḥ | indraḥ | sanāt | eva | sahase | jātaḥ | ugraḥ | ādartā | vajram | sthaviram | na | bhīmaḥ | udnāiva | kośam | vasunā | ni-ṛṣṭam