Sukta 4.20
वि यो ररप्श ऋषिभिर्नवेभिर्वृक्षो न पक्वः सृण्यो न जेता । मर्यो न योषामभि मन्यमानोऽच्छा विवक्मि पुरुहूतमिन्द्रम् ॥
वि यो र॑र॒प्श ऋषि॑भि॒र्नवे॑भिर्वृ॒क्षो न प॒क्वः सृण्यो॒ न जेता॑ । मर्यो॒ न योषा॑म॒भि मन्य॑मा॒नोऽच्छा॑ विवक्मि पुरुहू॒तमिन्द्र॑म् ॥
ví yó rarapśa ṛ́ṣibhir návabhir vṛkṣó na pakváḥ sṛ́ṇyo na jetā́ | már yo na yóṣām abhí manyamāno’cchā́ vivakmi puru-hūtám índram ||
He who has grown wide in power with the new seers, like a tree ripened to fullness, like a missile that wins; like a young man ardent towards the maiden, so with yearning I call straight towards Indra, the much-invoked.
वि । यः । र॒रप्शे । ऋषि॑ऽभिः । नवे॑भिः । वृ॒क्षः । न । प॒क्वः । सृण्यः॑ । न । जेता॑ । मर्यः॑ । न । योषा॑म् । अ॒भि । मन्य॑मानः । अच्छ॑ । वि॒व॒क्मि॒ । पु॒रु॒ऽहू॒तम् । इन्द्र॑म् ॥वि । यः । ररप्शे । ऋषिभिः । नवेभिः । वृक्षः । न । पक्वः । सृण्यः । न । जेता । मर्यः । न । योषाम् । अभि । मन्यमानः । अच्छ । विवक्मि । पुरुहूतम् । इन्द्रम् ॥vi | yaḥ | rarapśe | ṛṣi-bhiḥ | navebhiḥ | vṛkṣaḥ | na | pakvaḥ | sṛṇyaḥ | na | jetā | maryaḥ | na | yoṣām | abhi | manyamānaḥ | accha | vivakmi | puru-hūtam | indram