Sukta 4.20
उशन्नु षु णः सुमना उपाके सोमस्य नु सुषुतस्य स्वधावः । पा इन्द्र प्रतिभृतस्य मध्वः समन्धसा ममदः पृष्ठ्येन ॥
उ॒शन्नु॒ षु ण॑: सु॒मना॑ उपा॒के सोम॑स्य॒ नु सुषु॑तस्य स्वधावः । पा इ॑न्द्र॒ प्रति॑भृतस्य॒ मध्व॒: समन्ध॑सा ममदः पृ॒ष्ठ्ये॑न ॥
uśán nu ṣú ṇaḥ su-manā upā́ke sómasya nu su-sútasya svadhāvaḥ | pā́ indra práti-bhṛtasya mádhvaḥ sám andhasā mamadaḥ pṛṣṭhyéna ||
Desiring it, be now gracious to us near at hand, O master of thy own power: drink, O Indra, of the honey offered and brought to thee, and rejoice wholly in the soma-essence with its supporting strength.
उ॒शन् । ऊँ॒ इति॑ । सु । नः॒ । सु॒ऽमनाः॑ । उ॒पा॒के । सोम॑स्य । नु । सुऽसु॑तस्य । स्व॒धा॒ऽवः॒ । पाः । इ॒न्द्र॒ । प्रति॑ऽभृतस्य । मध्वः॑ । सम् । अन्ध॑सा । म॒म॒दः॒ । पृ॒ष्ठ्ये॑न ॥उशन् । ऊँ इति । सु । नः । सुमनाः । उपाके । सोमस्य । नु । सुसुतस्य । स्वधावः । पाः । इन्द्र । प्रतिभृतस्य । मध्वः । सम् । अन्धसा । ममदः । पृष्ठ्येन ॥uśan | oṃ iti | su | ṇaḥ | su-manāḥ | upāke | somasya | nu | su-sutasya | svadhāvaḥ | pāḥ | indra | prati-bhṛtasya | madhvaḥ | sam | andhasā | mamadaḥ | pṛṣṭhyena