Sukta 4.20
इमं यज्ञं त्वमस्माकमिन्द्र पुरो दधत्सनिष्यसि क्रतुं नः । श्वघ्नीव वज्रिन्त्सनये धनानां त्वया वयमर्य आजिं जयेम ॥
इ॒मं य॒ज्ञं त्वम॒स्माक॑मिन्द्र पु॒रो दध॑त्सनिष्यसि॒ क्रतुं॑ नः । श्व॒घ्नीव॑ वज्रिन्त्स॒नये॒ धना॑नां॒ त्वया॑ व॒यम॒र्य आ॒जिं ज॑येम ॥
imáṃ yajñáṃ tvám asmā́kam índra puró dádhat saniṣyasi krátuṃ naḥ | śvaghnī́va vajrin sanáye dhánānāṃ tváyā vayám aryá ā́jiṃ jayema ||
This sacrifice of ours, O Indra, set it in the front and thou shalt win for us the right will and discerning power. Like a hound that strikes the quarry, O thunder-bearer, for the gaining of riches—through thee may we, the Aryan in aspiration, conquer the battle.
इ॒मम् । य॒ज्ञम् । त्वम् । अ॒स्माक॑म् । इ॒न्द्र॒ । पु॒रः । दध॑त् । स॒नि॒ष्य॒सि॒ । क्रतु॑म् । नः॒ । श्व॒घ्नीऽइ॑व । व॒ज्रि॒न् । स॒नये॑ । धना॑नाम् । त्वया॑ । व॒यम् । अ॒र्यः । आ॒जिम् । ज॒ये॒म॒ ॥इमम् । यज्ञम् । त्वम् । अस्माकम् । इन्द्र । पुरः । दधत् । सनिष्यसि । क्रतुम् । नः । श्वघ्नीइव । वज्रिन् । सनये । धनानाम् । त्वया । वयम् । अर्यः । आजिम् । जयेम ॥imam | yajñam | tvam | asmākam | indra | puraḥ | dadhat | saniṣyasi | kratum | naḥ | śvaghnī-iva | vajrin | sanaye | dhanānām | tvayā | vayam | aryaḥ | ājim | jayema