Sukta 4.2
एता ते अग्न उचथानि वेधोऽवोचाम कवये ता जुषस्व । उच्छोचस्व कृणुहि वस्यसो नो महो रायः पुरुवार प्र यन्धि ॥
ए॒ता ते॑ अग्न उ॒चथा॑नि वे॒धोऽवो॑चाम क॒वये॒ ता जु॑षस्व । उच्छो॑चस्व कृणु॒हि वस्य॑सो नो म॒हो रा॒यः पु॑रुवार॒ प्र य॑न्धि ॥
etā́ te agne ucáthāni védho’ vocāma kaváye tā́ juṣasva | úc chocasva kṛṇuhí vásyaso no mahó rāyáḥ puru-vā́ra prá yandhi ||
These utterances, O Agni the Ordainer, we have spoken to thee the Seer; accept them. Blaze out; make for us a greater good. Send forth toward us the great plenitude, rich in many desirable forms.
ए॒ता । ते॒ । अ॒ग्ने॒ । उ॒चथा॑नि । वे॒धः । अवो॑चाम । क॒वये॑ । ता । जु॒ष॒स्व॒ । उत् । शो॒च॒स्व॒ । कृ॒णु॒हि । वस्य॑सः । नः॒ । म॒हः । रा॒यः । पु॒रु॒ऽवा॒र॒ । प्र । य॒न्धि॒ ॥एता । ते । अग्ने । उचथानि । वेधः । अवोचाम । कवये । ता । जुषस्व । उत् । शोचस्व । कृणुहि । वस्यसः । नः । महः । रायः । पुरुवार । प्र । यन्धि ॥etā | te | agne | ucathāni | vedhaḥ | avocāma | kavaye | tā | juṣasva | ut | śocasva | kṛṇuhi | vasyasaḥ | naḥ | mahaḥ | rāyaḥ | puru-vāra | pra | yandhi