Sukta 4.19
एवा त्वामिन्द्र वज्रिन्नत्र विश्वे देवासः सुहवास ऊमाः । महामुभे रोदसी वृद्धमृष्वं निरेकमिद्वृणते वृत्रहत्ये ॥
ए॒वा त्वामि॑न्द्र वज्रि॒न्नत्र॒ विश्वे॑ दे॒वास॑: सु॒हवा॑स॒ ऊमा॑: । म॒हामु॒भे रोद॑सी वृ॒द्धमृ॒ष्वं निरेक॒मिद्वृ॑णते वृत्र॒हत्ये॑ ॥
evā́ tvām índra vajrinn átra víśve devā́saḥ su-hávāsa ū́māḥ | mahā́m ubhé ródasī vṛ́ddham ṛ́ṣvaṁ nír ékam íd vṛṇate vṛtra-hátye ||
Thus, O Indra of the thunderbolt, here all the gods, well-invoking and eager, choose thee alone. Great art thou, enlarging both Heaven and Earth, lofty in growth; they single thee out for the slaying of the Obstructor.
ए॒व । त्वाम् । इ॒न्द्र॒ । व॒ज्रि॒न् । अत्र॑ । विश्वे॑ । दे॒वासः॑ । सु॒ऽहवा॑सः । ऊमाः॑ । म॒हाम् । उ॒भे इति॑ । रोद॑सी॒ इति॑ । वृ॒द्धम् । ऋ॒ष्वम् । निः । एक॑म् । इत् । गृ॒ण॒ते॒ । वृ॒त्र॒ऽहत्ये॑ ॥एव । त्वाम् । इन्द्र । वज्रिन् । अत्र । विश्वे । देवासः । सुहवासः । ऊमाः । महाम् । उभे इति । रोदसी इति । वृद्धम् । ऋष्वम् । निः । एकम् । इत् । गृणते । वृत्रहत्ये ॥eva | tvām | indra | vajrin | atra | viśve | devāsaḥ | su-havāsaḥ | ūmāḥ | mahām | ubhe iti | rodasī iti | vṛddham | ṛṣvam | niḥ | ekam | it | gṛṇate | vṛtra-hatye