Sukta 4.18
ममच्चन ते मघवन्व्यंसो निविविध्वाँ अप हनू जघान । अधा निविद्ध उत्तरो बभूवाञ्छिरो दासस्य सं पिणग्वधेन ॥
मम॑च्च॒न ते॑ मघव॒न्व्यं॑सो निविवि॒ध्वाँ अप॒ हनू॑ ज॒घान॑ । अधा॒ निवि॑द्ध॒ उत्त॑रो बभू॒वाञ्छिरो॑ दा॒सस्य॒ सं पि॑णग्व॒धेन॑ ॥
mámac ca ná te maghavan vyáṃso ni-vividhvā́m̐ ápa hanū́ jaghā́na | ádhā ni-viddhá uttáro babhūvān chíro dāsásya sám piṇag vadhéna ||
Not even against you, O bounteous one, could the assailant prevail: you struck away his jaws when he pressed in. Then, having pierced through, you rose superior; you crushed the head of the Dāsa with the decisive blow.
मम॑त् । च॒न । ते॒ । म॒घ॒ऽव॒न् । विऽअं॑सः । नि॒ऽवि॒वि॒ध्वान् । अप॑ । हनू॒ इति॑ । ज॒घान॑ । अध॑ । निऽवि॑द्धः । उत्ऽत॑रः । ब॒भू॒वान् । शिरः॑ । दा॒सस्य॑ । सम् । पि॒ण॒क् । व॒धेन॑ ॥ममत् । चन । ते । मघवन् । विअंसः । निविविध्वान् । अप । हनू इति । जघान । अध । निविद्धः । उत्तरः । बभूवान् । शिरः । दासस्य । सम् । पिणक् । वधेन ॥mamat | cana | te | magha-van | vi-aṃsaḥ | ni-vividhvān | apa | hanūiti | jaghāna | adha | ni-viddhaḥ | ut-taraḥ | babhūvān | śiraḥ | dāsasya | sam | piṇak | vadhena