Sukta 4.18
ममच्चन त्वा युवतिः परास ममच्चन त्वा कुषवा जगार । ममच्चिदापः शिशवे ममृड्युर्ममच्चिदिन्द्रः सहसोदतिष्ठत् ॥
मम॑च्च॒न त्वा॑ युव॒तिः प॒रास॒ मम॑च्च॒न त्वा॑ कु॒षवा॑ ज॒गार॑ । मम॑च्चि॒दाप॒: शिश॑वे ममृड्यु॒र्मम॑च्चि॒दिन्द्र॒: सह॒सोद॑तिष्ठत् ॥
mámac ca ná tvā yuvatíḥ parā́sa mámāc ca ná tvā kúṣavā jagā́ra | mámāc cid ā́paḥ śíśave mamṛḍyúr mámāc cid índraḥ sáhasód atiṣṭhat ||
Not even my young strength could cast you away; not even the midwives could overpower you. Even the Waters yielded to the child; even Indra rose up by his own might.
मम॑त् । च॒न । त्वा॒ । यु॒व॒तिः । प॒रा॒ऽआस॑ । मम॑त् । च॒न । त्वा॒ । कु॒षवा॑ । ज॒गार॑ । मम॑त् । चि॒त् । आपः॑ । शिश॑वे । म॒मृ॒ड्युः॒ । मम॑त् । चि॒त् । इन्द्रः॑ । सह॑सा । उत् । अ॒ति॒ष्ठ॒त् ॥ममत् । चन । त्वा । युवतिः । पराआस । ममत् । चन । त्वा । कुषवा । जगार । ममत् । चित् । आपः । शिशवे । ममृड्युः । ममत् । चित् । इन्द्रः । सहसा । उत् । अतिष्ठत् ॥mamat | cana | tvā | yuvatiḥ | parāāsa | mamat | cana | tvā | kuṣavā | jagāra | mamat | cit | āpaḥ | śiśave | mamṛḍyuḥ | mamat | cit | indraḥ | sahasā | ut | atiṣṭhat