Sukta 4.18
गृष्टिः ससूव स्थविरं तवागामनाधृष्यं वृषभं तुम्रमिन्द्रम् । अरीळ्हं वत्सं चरथाय माता स्वयं गातुं तन्व इच्छमानम् ॥
गृ॒ष्टिः स॑सूव॒ स्थवि॑रं तवा॒गाम॑नाधृ॒ष्यं वृ॑ष॒भं तुम्र॒मिन्द्र॑म् । अरी॑ळ्हं व॒त्सं च॒रथा॑य मा॒ता स्व॒यं गा॒तुं त॒न्व॑ इ॒च्छमा॑नम् ॥
gṛṣṭíḥ sasū́va stháviraṃ tavāgā́m anādhṛ́ṣyaṃ vṛṣabháṃ tumrám índram | arī́ḷhaṃ vatsáṃ cárathāya mātā́ svayáṃ gātúṃ tanvá icchámānam ||
The strong cow bore for you the steadfast, ever-advancing Indra—unassailable bull, impetuous in power. The mother bore the uninjured calf for his ranging, himself desiring a path for the body of his being.
गृ॒ष्टिः । सा॒सू॒व॒ । स्थवि॑रम् । त॒वा॒गाम् । अ॒ना॒धृ॒ष्यम् । वृ॒ष॒भम् । तुम्र॑म् । इन्द्र॑म् । अरी॑ळ्हम् । व॒त्सम् । च॒रथा॑य । मा॒ता । स्व॒यम् । गा॒तुम् । त॒न्वे॑ । इ॒च्छमा॑नम् ॥गृष्टिः । सासूव । स्थविरम् । तवागाम् । अनाधृष्यम् । वृषभम् । तुम्रम् । इन्द्रम् । अरीळ्हम् । वत्सम् । चरथाय । माता । स्वयम् । गातुम् । तन्वे । इच्छमानम् ॥gṛṣṭiḥ | sāsūva | sthaviram | tavāgām | anādhṛṣyam | vṛṣabham | tumram | indram | arīḷham | vatsam | carathāya | mātā | svayam | gātum | tanve | icchamānam