Sukta 4.18
किमु ष्विदस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः । ममैतान्पुत्रो महता वधेन वृत्रं जघन्वाँ असृजद्वि सिन्धून् ॥
किमु॑ ष्विदस्मै नि॒विदो॑ भन॒न्तेन्द्र॑स्याव॒द्यं दि॑धिषन्त॒ आप॑: । ममै॒तान्पु॒त्रो म॑ह॒ता व॒धेन॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिन्धू॑न् ॥
kím u ṣv id asmai nivído bhananténdrasyāvádyam didhiṣanta ā́paḥ | mamā́itān putró mahatā́ vadhéna vṛtráṃ jaghanvā́m̐ asṛ́jad ví síndhūn ||
Why indeed do the proclamations sound for him—do the Waters try to fasten blame upon Indra? My son, with a mighty weapon, has slain Vṛtra and has released the rivers in their wide flow.
किम् । ऊँ॒ इति॑ । स्वि॒त् । अ॒स्मै॒ । नि॒ऽविदः॑ । भ॒न॒न्त॒ । इन्द्र॑स्य । अ॒व॒द्यम् । दि॒धि॒ष॒न्ते॒ । आपः॑ । मम॑ । ए॒तान् । पु॒त्रः । म॒ह॒ता । व॒धेन॑ । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒सृ॒ज॒त् । वि । सिन्धू॑न् ॥किम् । ऊँ इति । स्वित् । अस्मै । निविदः । भनन्त । इन्द्रस्य । अवद्यम् । दिधिषन्ते । आपः । मम । एतान् । पुत्रः । महता । वधेन । वृत्रम् । जघन्वान् । असृजत् । वि । सिन्धून् ॥kim | oṃ iti | svit | asmai | ni-vidaḥ | bhananta | indrasya | avadyam | didhiṣante | āpaḥ | mama | etān | putraḥ | mahatā | vadhena | vṛtram | jaghanvān | asṛjat | vi | sindhūn