Sukta 4.18
अवद्यमिव मन्यमाना गुहाकरिन्द्रं माता वीर्येणा न्यृष्टम् । अथोदस्थात्स्वयमत्कं वसान आ रोदसी अपृणाज्जायमानः ॥
अ॒व॒द्यमि॑व॒ मन्य॑माना॒ गुहा॑क॒रिन्द्रं॑ मा॒ता वी॒र्ये॑णा॒ न्यृ॑ष्टम् । अथोद॑स्थात्स्व॒यमत्कं॒ वसा॑न॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः ॥
avádyam iva mányamānā guhā́ akar índraṃ mātā́ vī́ryeṇā ní-ṛṣṭam | áthod asthāt svayám átkaṃ vásāna ā́ rodasī́ apṛṇāj jā́yamānaḥ ||
Thinking him as though blameworthy, the Mother made Indra into a hiding-place, thrust down by his own force. Then he arose of himself, clothing himself with his armor; being born, he filled the two worlds.
अ॒व॒द्यम्ऽइ॑व । मन्य॑माना । गुहा॑ । अ॒कः॒ । इन्द्र॑म् । मा॒ता । वी॒र्ये॑ण । निऽऋ॑ष्टम् । अथ॑ । उत् । अ॒स्था॒त् । स्व॒यम् । अत्क॑म् । वसा॑नः । आ । रोद॑सी॒ इति॑ । अ॒पृ॒णा॒त् । जाय॑मानः ॥अवद्यम्इव । मन्यमाना । गुहा । अकः । इन्द्रम् । माता । वीर्येण । निऋष्टम् । अथ । उत् । अस्थात् । स्वयम् । अत्कम् । वसानः । आ । रोदसी इति । अपृणात् । जायमानः ॥avadyam-iva | manyamānā | guhā | akaḥ | indram | mātā | vīryeṇa | ni-ṛṣtam | atha | ut | asthāt | svayam | atkam | vasānaḥ | ā | rodasī iti | apṛṇāt | jāyamānaḥ