Sukta 4.18
किं स ऋधक्कृणवद्यं सहस्रं मासो जभार शरदश्च पूर्वीः । नही न्वस्य प्रतिमानमस्त्यन्तर्जातेषूत ये जनित्वाः ॥
किं स ऋध॑क्कृणव॒द्यं स॒हस्रं॑ मा॒सो ज॒भार॑ श॒रद॑श्च पू॒र्वीः । न॒ही न्व॑स्य प्रति॒मान॒मस्त्य॒न्तर्जा॒तेषू॒त ये जनि॑त्वाः ॥
kím sá ṛ́dhak kṛṇavad yáṃ sahásraṃ mā́sō jabhā́ra śáradaś ca pūrvī́ḥ | nahī́ nv asya prati-mā́nam ásty antár jātéṣūta yé jánitvāḥ ||
What separate deed could equal him, who bore a thousand months and many former autumns? Truly there is no measure for him among the born, nor even among those who are sources of birth.
किम् । सः । ऋध॑क् । कृ॒ण॒व॒त् । यम् । स॒हस्र॑म् । मा॒सः । ज॒भार॑ । श॒रदः॑ । च॒ । पू॒र्वीः । न॒ही । नु । आ॒स्य॒ । प्र॒ति॒ऽमान॑म् । अस्ति॑ । अ॒न्तः । ज॒तेषु॑ । उ॒त । ये । जनि॑ऽत्वाः ॥किम् । सः । ऋधक् । कृणवत् । यम् । सहस्रम् । मासः । जभार । शरदः । च । पूर्वीः । नही । नु । आस्य । प्रतिमानम् । अस्ति । अन्तः । जतेषु । उत । ये । जनित्वाः ॥kim | saḥ | ṛdhak | kṛṇavat | yam | sahasram | māsaḥ | jabhāra | śaradaḥ | ca | pūrvīḥ | nahī | nu | āsya | prati-mānam | asti | antaḥ | jateṣu | uta | ye | jani-tvāḥ