Sukta 4.18
परायतीं मातरमन्वचष्ट न नानु गान्यनु नू गमानि । त्वष्टुर्गृहे अपिबत्सोममिन्द्रः शतधन्यं चम्वोः सुतस्य ॥
प॒रा॒य॒तीं मा॒तर॒मन्व॑चष्ट॒ न नानु॑ गा॒न्यनु॒ नू ग॑मानि । त्वष्टु॑र्गृ॒हे अ॑पिब॒त्सोम॒मिन्द्र॑: शतध॒न्यं॑ च॒म्वो॑: सु॒तस्य॑ ॥
parāyátīṃ mātáram ánv acaṣṭa ná nā́nu gā́ni ánu nū́ gamāni | tváṣṭur gṛhé apibat sómam índraḥ śatá-dhanyaṃ camvóḥ sutásya ||
He watched his mother as she fled away, (saying) ‘Not so—nor will I follow by the common tracks; I shall not go by the usual ways.’ In Tvaṣṭṛ’s house Indra drank the Soma, the richly plenishing draught, pressed out in the bowl.
प॒रा॒ऽय॒तीम् । मा॒तर॑म् । अनु॑ । अ॒च॒ष्ट॒ । न । न । अनु॑ । गा॒नि॒ । अनु॑ । नु । ग॒मा॒नि॒ । त्वष्टुः॑ । गृ॒हे । अ॒पि॒ब॒त् । सोम॑म् । इन्द्रः॑ । श॒त॒ऽध॒न्य॑म् । च॒म्वोः॑ । सु॒तस्य॑ ॥परायतीम् । मातरम् । अनु । अचष्ट । न । न । अनु । गानि । अनु । नु । गमानि । त्वष्टुः । गृहे । अपिबत् । सोमम् । इन्द्रः । शतधन्यम् । चम्वोः । सुतस्य ॥parāyatīm | mātaram | anu | acaṣṭa | na | na | anu | gāni | anu | nu | gamāni | tvaṣṭuḥ | gṛhe | apibat | somam | indraḥ | śata-dhanyam | camvoḥ | sutasya