Sukta 4.18
कस्ते मातरं विधवामचक्रच्छयुं कस्त्वामजिघांसच्चरन्तम् । कस्ते देवो अधि मार्डीक आसीद्यत्प्राक्षिणाः पितरं पादगृह्य ॥
कस्ते॑ मा॒तरं॑ वि॒धवा॑मचक्रच्छ॒युं कस्त्वाम॑जिघांस॒च्चर॑न्तम् । कस्ते॑ दे॒वो अधि॑ मार्डी॒क आ॑सी॒द्यत्प्राक्षि॑णाः पि॒तरं॑ पाद॒गृह्य॑ ॥
kás te mātáraṁ vidhávām acakrac chayúṁ kás tvām ajighāṁsac cárantam | kás te devó ádhi mārḍīké āsīd yát prā́kṣiṇāḥ pitáraṁ pā́da-gṛ́hya ||
Who made thy Mother widowed, and thyself a castaway? Who sought to slay thee while thou movedst on thy way? What god stood over thee with the power of healing grace, when thou didst strike down the Father, seizing him by the foot?
कः । ते॒ । मा॒तर॑म् । वि॒धवा॑म् । अ॒च॒क्र॒त् । श॒युम् । कः । त्वाम् । अ॒जि॒घां॒स॒त् । चर॑न्तम् । कः । ते॒ । दे॒वः । अधि॑ । मा॒र्डी॒के । आ॒सी॒त् । यत् । प्र । अक्षि॑णाः । पि॒तर॑म् । पा॒द॒ऽगृह्य॑ ॥कः । ते । मातरम् । विधवाम् । अचक्रत् । शयुम् । कः । त्वाम् । अजिघांसत् । चरन्तम् । कः । ते । देवः । अधि । मार्डीके । आसीत् । यत् । प्र । अक्षिणाः । पितरम् । पादगृह्य ॥kaḥ | te | mātaram | vidhavām | acakrat | śayum | kaḥ | tvām | ajighāṃsat | carantam | kaḥ | te | devaḥ | adhi | mārḍīke | āsīt | yat | pra | akṣiṇāḥ | pitaram | pāda-gṛhya