Sukta 4.18
अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम् । अपश्यं जायाममहीयमानामधा मे श्येनो मध्वा जभार ॥
अव॑र्त्या॒ शुन॑ आ॒न्त्राणि॑ पेचे॒ न दे॒वेषु॑ विविदे मर्डि॒तार॑म् । अप॑श्यं जा॒यामम॑हीयमाना॒मधा॑ मे श्ये॒नो मध्वा ज॑भार ॥
ávartyā śúna ā́ntrāṇi pece ná devéṣu vivide marḍitā́ram | ápaśyaṁ jāyā́m ámahīyamānām ádhā me śyenó mádhvā ā́ jabhāra ||
In my distress I cooked the entrails of a dog; among the gods I found no one who would heal and set me right. I saw my spouse being diminished and denied her greatness; then for me the falcon brought the honeyed sweetness.
अव॑र्त्या । शुनः॑ । आ॒न्त्राणि॑ । पे॒चे॒ । न । दे॒वेषु॑ । वि॒वि॒दे॒ । म॒र्डि॒तार॑म् । अप॑श्यम् । जा॒याम् । अम॑हीयमानाम् । अध॑ । मे॒ । श्ये॒नः । मधु॑ । आ । ज॒भा॒र॒ ॥अवर्त्या । शुनः । आन्त्राणि । पेचे । न । देवेषु । विविदे । मर्डितारम् । अपश्यम् । जायाम् । अमहीयमानाम् । अध । मे । श्येनः । मधु । आ । जभार ॥avartyā | śunaḥ | āntrāṇi | pece | na | deveṣu | vivide | marḍitāram | apaśyam | jāyām | amahīyamānām | adha | me | śyenaḥ | madhu | ā | jabhāra