Sukta 4.18
उत माता महिषमन्ववेनदमी त्वा जहति पुत्र देवाः । अथाब्रवीद्वृत्रमिन्द्रो हनिष्यन्त्सखे विष्णो वितरं वि क्रमस्व ॥
उ॒त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा॑ जहति पुत्र दे॒वाः । अथा॑ब्रवीद्वृ॒त्रमिन्द्रो॑ हनि॒ष्यन्त्सखे॑ विष्णो वित॒रं वि क्र॑मस्व ॥
utá mātā́ mahíṣam ánv avenad amī́ tvā jahati putra devā́ḥ | áthābravīd vṛtrám índro haniṣyán sákhē víṣṇo vitaráṃ ví kramasva ||
And the Mother followed after the mighty one, saying: ‘These gods abandon you, my son.’ Then Indra, about to slay Vṛtra, spoke: ‘Friend Viṣṇu, stride out more widely, make the passage vast.’
उ॒त । मा॒ता । म॒हि॒षम् । अनु॑ । अ॒वे॒न॒त् । अ॒मी इति॑ । त्वा॒ । ज॒ह॒ति॒ । पु॒त्र॒ । दे॒वाः । अथ॑ । अ॒ब्र॒वी॒त् । वृ॒त्रम् । इन्द्रः॑ । ह॒नि॒ष्यन् । सखे॑ । वि॒ष्णो॒ इति॑ । वि॒ऽत॒रम् । वि । क्र॒म॒स्व॒ ॥उत । माता । महिषम् । अनु । अवेनत् । अमी इति । त्वा । जहति । पुत्र । देवाः । अथ । अब्रवीत् । वृत्रम् । इन्द्रः । हनिष्यन् । सखे । विष्णो इति । वितरम् । वि । क्रमस्व ॥uta | mātā | mahiṣam | anu | avenat | amī iti | tvā | jahati | putra | devāḥ | atha | abravīt | vṛtram | indraḥ | haniṣyan | sakhe | viṣṇo iti | vi-taram | vi | kramasva