Sukta 4.17
अयं वृतश्चातयते समीचीर्य आजिषु मघवा शृण्व एकः । अयं वाजं भरति यं सनोत्यस्य प्रियासः सख्ये स्याम ॥
अ॒यं वृत॑श्चातयते समी॒चीर्य आ॒जिषु॑ म॒घवा॑ शृ॒ण्व एक॑: । अ॒यं वाजं॑ भरति॒ यं स॒नोत्य॒स्य प्रि॒यास॑: स॒ख्ये स्या॑म ॥
ayáṃ vṛ́taś cātayate samīcī́r yá ā́jiṣu maghávā śṛṇvá ékaḥ | ayáṃ vā́jaṃ bharati yáṃ sanóty asyá priyā́saḥ sakhyé syāma ||
This one drives away the closed obstruction and sets the right-moving currents; he alone, the bountiful, is heard in the battles. This one brings the plenitude of force which he wins—may we be his beloveds in the bond of friendship.
अ॒यम् । वृतः॑ । चा॒त॒य॒ते॒ । स॒म्ऽई॒चीः । यः । आ॒जिषु॑ । म॒घऽवा॑ । शृ॒ण्वे । एकः॑ । अ॒यम् । वाज॑म् । भ॒र॒ति॒ । यम् । स॒नोति॑ । अ॒स्य । प्रि॒यासः॑ । स॒ख्ये । स्या॒म॒ ॥अयम् । वृतः । चातयते । सम्ईचीः । यः । आजिषु । मघवा । शृण्वे । एकः । अयम् । वाजम् । भरति । यम् । सनोति । अस्य । प्रियासः । सख्ये । स्याम ॥ayam | vṛtaḥ | cātayate | sam-īcīḥ | yaḥ | ājiṣu | magha-vā | śṛṇve | ekaḥ | ayam | vājam | bharati | yam | sanoti | asya | priyāsaḥ | sakhye | syāma