Sukta 4.17
सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृषभं सुवज्रम् । हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ॥
स॒त्रा॒हणं॒ दाधृ॑षिं॒ तुम्र॒मिन्द्रं॑ म॒हाम॑पा॒रं वृ॑ष॒भं सु॒वज्र॑म् । हन्ता॒ यो वृ॒त्रं सनि॑तो॒त वाजं॒ दाता॑ म॒घानि॑ म॒घवा॑ सु॒राधा॑: ॥
satrā́haṇaṃ dā́dhṛṣiṃ túmram índraṃ mahā́m apā́raṃ vṛṣabháṃ suvájram | hántā yó vṛtráṃ sánitotá vā́jaṃ dā́tā maghā́ni maghávā surā́dhāḥ ||
Indra the constant slayer, the daring, the impetuous; the great, the boundless, the bull with the good thunderbolt—he is the killer of Vṛtra, the winner of plenitude of force; the giver of many felicities, the bountiful one of perfect accomplishment.
स॒त्रा॒ऽहन॑न् । दधृ॑षिम् । तुम्र॑म् । इन्द्र॑म् । म॒हाम् । अ॒पा॒रम् । वृ॒ष॒भम् । सु॒ऽवज्र॑म् । हन्ता॑ । यः । वृ॒त्रम् । सनि॑ता । उ॒त । वाज॑म् । दाता॑ । म॒घानि॑ । म॒घऽवा॑ । सु॒ऽराधाः॑ ॥सत्राहनन् । दधृषिम् । तुम्रम् । इन्द्रम् । महाम् । अपारम् । वृषभम् । सुवज्रम् । हन्ता । यः । वृत्रम् । सनिता । उत । वाजम् । दाता । मघानि । मघवा । सुराधाः ॥satrāhanan | dadhṛṣim | tumram | indram | mahām | apāram | vṛṣabham | su-vajram | hantā | yaḥ | vṛtram | sanitā | uta | vājam | dātā | maghāni | magha-vā | su-rādhāḥ