Sukta 4.17
अयं शृण्वे अध जयन्नुत घ्नन्नयमुत प्र कृणुते युधा गाः । यदा सत्यं कृणुते मन्युमिन्द्रो विश्वं दृळ्हं भयत एजदस्मात् ॥
अ॒यं शृ॑ण्वे॒ अध॒ जय॑न्नु॒त घ्नन्न॒यमु॒त प्र कृ॑णुते यु॒धा गाः । य॒दा स॒त्यं कृ॑णु॒ते म॒न्युमिन्द्रो॒ विश्वं॑ दृ॒ळ्हं भ॑यत॒ एज॑दस्मात् ॥
ayáṃ śṛṇve ádha jáyann utá ghnann ayám utá prá kṛṇute yudhā́ gā́ḥ | yadā́ satyáṃ kṛṇuté manyúm índro víśvaṃ dṛḷháṃ bhayate éjad asmāt ||
This one is heard—then he conquers and he strikes; this one wins the Rays by battle. When Indra makes his wrath a truth-force, all that is firm trembles in fear before him.
अ॒यम् । शृ॒ण्वे॒ । अध॑ । जय॑न् । उ॒त । घ्नन् । अ॒यम् । उ॒त । प्र । कृ॒णु॒ते॒ । यु॒धा । गाः । य॒दा । स॒त्यम् । कृ॒णु॒ते । म॒न्युम् । इन्द्रः॑ । विश्व॑म् । दृ॒ळ्हम् । भ॒य॒ते॒ । एज॑त् । अ॒स्मा॒त् ॥अयम् । शृण्वे । अध । जयन् । उत । घ्नन् । अयम् । उत । प्र । कृणुते । युधा । गाः । यदा । सत्यम् । कृणुते । मन्युम् । इन्द्रः । विश्वम् । दृळ्हम् । भयते । एजत् । अस्मात् ॥ayam | śṛṇve | adha | jayan | uta | ghnan | ayam | uta | pra | kṛṇute | yudhā | gāḥ | yadā | satyam | kṛṇute | manyum | indraḥ | viśvam | dṛḷham | bhayate | ejat | asmāt