Sukta 4.17
त्वमध प्रथमं जायमानोऽमे विश्वा अधिथा इन्द्र कृष्टीः । त्वं प्रति प्रवत आशयानमहिं वज्रेण मघवन्वि वृश्चः ॥
त्वमध॑ प्रथ॒मं जाय॑मा॒नोऽमे॒ विश्वा॑ अधिथा इन्द्र कृ॒ष्टीः । त्वं प्रति॑ प्र॒वत॑ आ॒शया॑न॒महिं॒ वज्रे॑ण मघव॒न्वि वृ॑श्चः ॥
tvám ádha prathamáṃ jā́yamāno'mé víśvā adhithā indra kṛṣṭī́ḥ | tváṃ práti právatā āśáyānam áhíṃ vájreṇa maghavan ví vṛścaḥ ||
You, even at your first birth, established all the peoples here, O Indra. You struck apart with the thunderbolt the serpent lying in the descending slopes, O Maghavan, and made the path free.
त्वम् । अध॑ । प्र॒थ॒मम् । जाय॑मानः । अमे॑ । विश्वाः॑ । अ॒धि॒थाः॒ । इ॒न्द्र॒ । कृ॒ष्टीः । त्वम् । प्रति॑ । प्र॒ऽवतः॑ । आ॒ऽशया॑नम् । अहि॑म् । वज्रे॑ण । म॒घ॒ऽव॒न् । वि । वृ॒श्चः॒ ॥त्वम् । अध । प्रथमम् । जायमानः । अमे । विश्वाः । अधिथाः । इन्द्र । कृष्टीः । त्वम् । प्रति । प्रवतः । आशयानम् । अहिम् । वज्रेण । मघवन् । वि । वृश्चः ॥tvam | adha | prathamam | jāyamānaḥ | ame | viśvāḥ | adhithāḥ | indra | kṛṣṭīḥ | tvam | prati | pra-vataḥ | āśayānam | ahim | vajreṇa | magha-van | vi | vṛścaḥ